________________
है मनूतनलघुप्रक्रिया . ३४१ बिदादि पाठादअपि, आश्वः । अनन्तरापत्ये आश्विः । बिदादिगर्गादिपाठात् शाङ्खः, शाङ्ख्यः, अनन्तरापत्ये शाखिः॥
नडादिभ्य आयनण् । ।१॥५३॥ नडादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्ये आयनग् प्रत्ययो भवति । नाडाथनः । चारायणः। अनन्तरापत्ये तु नाडिः, चारिः॥
वृद्धाद यूनि ।६।१॥३०॥ यन्यपत्ये विवक्षिते यः प्रत्ययः स परमप्रकृतयों वृद्धप्रत्ययस्तदन्ताद् भवति । आद्यादित्यस्याऽपवादः । वृद्धापत्यप्रत्ययान्त एव युवापत्यप्रत्ययस्य प्रकृतिर्भवतीति यावत् ॥
यवित्रः ।६।१॥५४॥ वृद्ध विहितौ यौ यजिनौ तदन्ताद् युवापत्ये आयनण् प्रत्ययो भवति । गाय॑स्यापत्यं युवा गाायणः। दाक्षेरपत्यं युवा दाक्षायणः । स्त्रियां परत्वादेयणेव ।
शिवादेरण् ।६।११६०॥ शिवादिभ्यो ङसन्तेभ्योऽपत्यमात्रेऽण् प्रत्ययो भवति । अत इादेरपवादः। शैवः, प्रौष्ठेः, पौष्ठिकः ॥
ऋषिवृष्ण्यन्धककुरुभ्यः ।६।११६१॥ ऋषवृष्ण्यन्ध१-नडस्य वृद्धापत्यम् , वृद्धयल्लोपौ । २-अकारलोपोऽवर्णेवर्णस्येत्यनेन । व्यञ्जनादिति यलोपः । ३-इकारलोपः, दक्षस्य युवापत्यम् । इञि आयनण् । रघुवर्णेति णः। ४-प्रोष्ठस्यापत्यम् , अवर्णेवर्णस्येत्यलोपः, एवं प्रौष्ठिकः । ५-ऋषयोवशिष्ठादयः, वृष्णयोऽन्धकः: कुस्त्रश्च क्षत्रियाः प्रसिद्धाः ।