SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघु प्रक्रिया ३३७ प्रत्यया विकल्प्यन्ते । तेन पक्षे समासो वाक्यं च प्रयुज्यते । आद्यादित्यधिकाराच्च सूत्रे यदादौ निर्दिष्टं तस्मात्प्रत्ययो भवति नान्यस्मात् ॥ 9 सोऽपत्ये | ६ | १|१२८ ।। यष्ठ्यन्तान्नाम्नोऽपत्येऽर्थे यथाविहितमणादयः प्रत्यया भवन्ति । वृद्धिः स्वरेष्वादणिति तद्धिते |७|४|१|| ञिति णिति च तडिते परे पूर्वो यः प्रकृतिभागस्तस्य स्वराणां मध्ये आदि स्वस्तस्य वृद्धिरादेशो भवति || अस्वयम्भुवोऽव् ||४ | ७० ॥ स्वयंभूशब्द वर्जितस्यापदसंज्ञकस्योवर्णान्तस्य तद्धिते परे अव इत्ययमादेशो भवति । औपगवेः । अस्वयंभुव इति किम् ? स्वायम्भुवः ॥ नोsपदस्य तद्धिते ||४ | ६१ || नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरा देर्लुग् भवति || अणि |७|४|५२ || अन् इत्येतदन्तस्याणि तद्धिते परे ऽन्त्यस्वरादेर्लुगू न भवति । सौत्वेनः ॥ 1 ८ - तेन सास्य देवतेत्यादौ तत्पदेन परामृष्टादिन्द्रादिप्रकृतेरेव प्रत्ययो भवति । ऐन्द्रं हविः । C १ - उप - समीपे गौर्यस्य स उपगुः, ततः उपगु ङस् इत्यत्र तस्यापत्यमित्यणि उपगु ङस् अ इति स्थिते एकार्थीभावो भवति । ततश्च नामसंज्ञायां सौ पदत्वमित्यपद्यनिमित्तस्य स्यादेर्लुकि आदिस्वरवृद्धिः, ततोऽव् ॥ २ - सुत्वनोऽपत्यम् । अन्त्यस्वरादिलोपनिषेध आदिवृद्धिः । २२
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy