________________
हैमनूतनलघुप्रक्रिया ____ अविशेषणे दो चास्मदः ।२।२।१२२॥ अस्मदो द्वावेकश्चार्थों का बहुवद् भवनि न चेत्तस्य विशेषणं प्रयुज्यते । आवां ब्रूवः, वयं ब्रूमः । अहं ब्रवीमि, वयं ब्रूमः । अविशेषण इति किम् ? ब्रूमो वयं सकलशास्त्रविचारदक्षाः ॥ अहं पण्डितो ब्रवीमि । नाट्ये च दक्षा वयमित्यादौ तु दक्षत्वादिकं विधेयं न विशेषणम् । विशेषणं त्यविधेयं यत्तदुच्यते, इति बहुवचनोपपत्तिः ॥ . गुरावेकश्च ।२।२।१२४॥ गौरवाहे ऽर्थे वर्तमानस्य शब्दस्य द्वावेकश्वार्थों बहुवद्वा भवति । त्वं गुरुः, युवां गुरू, यूयं गुरवः । अप् दारेत्यादयः शब्दा एकादिष्वर्थेवपि तत्तल्लिङ्गसङ्ख्या एव, तथा शब्दस्वाभाव्यादिति बोध्यम् ॥
इति कारकपरिशिष्टम् ॥
अथ तद्धिताः।
तत्रादौ संज्ञाधिकारः॥ तद्धितोऽणादिः ।६।११॥ इत ऊचे वक्ष्यमाणोऽणादिः प्रत्ययस्तद्धितसंज्ञो भवति ॥ - पौत्रादि वृद्धम् ।।२॥ परेमप्रकृतेरपत्यवतो यत्पौ. ५-यः स्वयं नापस्यत्वेन - बोधितो यस्याऽन्योऽपत्यत्वेन बुबोधियिषितस्स
परमप्रकृतिस्तद्वाचकादित्यर्थः । यथा गर्गवत्सादयः ।