SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया पृथगनाना पश्चमी च ।२।२।११३॥ पृथगनानाशब्दाभ्यां युक्ताद् गौणानाम्नः पञ्चमी तृतीया च भवति । पृथङ् मैत्रान्मैत्रेण वा । नाना चैत्राच्चैत्रेण वा ॥ ऋते द्वितीया च ।२।२।११४॥ वर्जनार्थाद ऋतेशब्देन युक्ताद् गौणान्नाम्नो द्वितीया-पञ्चमी च भवति । चित्रं यथाश्रयमृते । ऋते धर्मान्न सुखम् ॥ विना ते तृतीया च ।२।२।११५॥ विनाशब्देन युक्ताद् गौणानाम्नो द्वितीया तृतीया पश्चमी च भवति । विना वातं वाताद् वातेन वा ॥ __तुल्याथै स्तृतीयाषष्ठ्यो ।२।२।११६॥ तुल्याथैयुक्ताद गौणानाम्नस्तृतीयाषष्ठ्यौ भवतः। मात्रा मातुर्वा तुल्यः सदृशः समानः समो वा। तुलोपमाशब्दो तु सादृश्ये, न सदृशे इति तद्योगे न भवति । कृष्णस्य तुलोपमा वा नास्ति ॥ . .. . द्वितीयाषष्ठ्यावेनेनाऽनव्चे।।२।११७॥ एनप्रत्ययान्तेन युक्ताद् गौणानाम्नो द्वितीयाषष्ठयौ विभक्ती भवतो. न. चेत्सोऽञ्चेः परो भवति । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्रोग ग्रामात् ॥ १-पूर्वोऽदूरो देश इत्यर्थे अदूरे एन इत्येनप्रत्ययः । २-एनप्रत्ययस्य लुबञ्चेरिति लुप् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy