________________
३३२
हैमनूतनलघुप्रक्रिया यथा गम्या भवति क्रिया। तथा च-आनेषु फलायमानेषु गतः पक्वेषु चागतः। जातेविति गम्यते । तदपेक्षया सप्तमी । एवं श्रेष्ठेिषु भुञ्जानेषु दरिद्रा आसते, श्रेष्ठिवासीनेषु दरिद्रा भुञ्जते । दरिद्रेष्वासीनेषु श्रेष्ठिनो भुञ्जते, दरिद्रेषु भुञ्जानेषु श्रेष्ठिन आसते । इत्यादौ यत्रार्हाणां कर्तृत्वं तद्विपर्ययो वा तथाऽनर्हाणामकारकत्वं तद्विपर्ययो वा, तत्रापि भावलक्षण एव सप्तमी बोध्या ॥
षष्ठी वाऽनादरे ।२।२।१०८॥ यद्भावो भावलक्षणं तस्मिन् वर्तमानाद् गौणानाम्नोऽनादरे गम्यमाने षष्ठी वा भवति । रुदतो लोकस्य प्रावाजीत् । रुदन्तं लोकमनाहत्येत्यर्थः। पक्षे भावलक्षणसप्तमी। रुदति लोके प्राबाजीत् ॥
सप्तमी चाविभागे निर्धारणे ।२।२।१०९॥ जातिगुणक्रियासंज्ञाभिः . समुदायादेकदेशस्य बुद्धया पृथकरणं निर्धारणम् । निर्धारणे गम्यमाने गौणानाम्नः षष्ठी सप्तमी च भवति निर्धार्यमाणस्यैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्यमाने । नृणां नृषु वा द्विजः श्रेष्ठः। क्षत्रियः पुरुषाणां पुरुषेषु वा शूरतमः। गवां गोषु वा कृष्णा बहुक्षीरा ॥ इति सप्तमी । १-अर्हाणां कारकत्वम् । २-अर्हाणामकारकत्वम् । ३-अनर्हाणामकारकत्वम् । ४-अनर्हाणां कारकत्वम् ।