SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३३१ नाम्नोऽप्रत्यादौ सप्तमी भवति । साधुर्द्विजे । प्रत्यादौ तु द्वितीयैव ॥ 1 निपुणेन चार्चायाम् | २|२| १०३ || निपुणशब्देन साधुशब्देन च युक्ताद् गौणान्नाम्नोऽप्रत्यादौ सप्तमी भवत्यर्चायां गम्यायाम् । षष्ठ्यपवादः । मातरि निपुणः, मातरि साधुः, अनर्चायां तु - निपुणो मैत्रो मातुः । स्वेशेऽधिना | २|२| १०४ || ईशितव्ये ईशे च वर्त्तमानादधिना युक्ताद् गौणान्नाम्नः सप्तमी भवति । अधिविदेहेषु जनकः । अधिश्रेणि मगधाः || उपेनाधिकिनि | २|२| १०५ || उपेन युक्तादधि-किनि वर्तमानाद् गौणानाम्नः सप्तमी भवति । उपखाय द्रोणः । उपनिष्के कार्षापणैः ॥ यद्भावो भावलक्षणम् | २|२| १०६ ॥ यस्य सम्बन्धिन्या क्रिययाऽपरक्रिया लक्ष्यते तस्मिन् वर्त्तमानाद् गौणानाम्नः सप्तमी भवति । गोषु दुह्यमानास गत चैत्रः । गोषु दुग्धा स्वागतश्च । गम्यमानापि क्रिया कारकविभक्तिनिमित्तम् । वृक्षे शाखेत्यादौ आधारनिमित्तं ३ - मातैवेन निपुणं मन्यते न तु तथाऽस्तीत्यर्थः । ४ - जनकस्य विदेहा ईशितव्या इत्यर्थः । ५ - मगधानामीशः श्रेणिक इत्यर्थः । ६ - खाय द्रोणोऽधिकइत्यर्थः । ७ - निष्के कार्षापणोऽधिक इत्यर्थः । क्रिया | प्रसिद्धं लक्षणम् । अप्रसिद्धं लक्ष्यम् । ८ - भावः
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy