________________
३३० हैमबूतनलघुप्रक्रिया क्लाम्यति । औपचारिकम् स मे मुष्टिमध्ये तिष्ठति, ममा
गुल्यग्रे करिशतम् ॥ . स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतै : ।२।२।९८॥ एभिः शब्दयुक्ताद् गौणानाम्नः सप्तमी वा भवति । पक्षे शेषे षष्ठी । गवां गोषु वा स्वामीश्वरोऽधिपतियादः साक्षी प्रतिभूः प्रसूतो वा ।।
व्याप्ये क्तेनः । २।२।९९॥ क्तप्रत्ययान्ताद् य इन् तदन्तस्य व्याप्ये वर्तमानाद् गौणानाम्नः सप्तमी भवति । अधी'ती व्याकरणे, इष्टी यज्ञे ॥
तद्युक्ते हेतौ ।२।२।१००॥ व्याप्येन संयुक्ते हेतौ वर्तमानाद् गौणानाम्नः सप्तमी भवति । हेतुतृतीयापवादः। चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरौं इन्ति, सीम्नि पुष्कलको हतः ॥ १॥ __ अप्रत्यादावसाधुना ।२।२।१०१॥ असाधुशब्देन युक्ताद् गौणानाम्नः प्रत्यादिप्रयोगाभावे सप्तमी भवति । असाधुर्मातरि । प्रत्यादौ तु द्वितीयैव, असाधुर्मातरं प्रति ॥
साघुना ।२।२।१०२॥ साधुशब्देन युक्ताद गौणा६-उपचारे भवमौपचारिकम् । १ . अघीतमनेनेत्यर्थे क्तान्तादिष्टादित्वादिन् । २-हेतुरत्रनिमित्तं कारणम् ।