________________
हैमनूतनलघुप्रक्रिया
३२९ षष्ठी न भवति । कृतः कटो मैत्रेण । कटं कृतवान् । वर्तमानेराज्ञां ज्ञातः । आधारे इदमेषां शयितमासितं वा ॥
वा क्लीवे ।२।२।९२॥ क्लीबे विहितस्य क्तस्य , कर्तरि षष्ठी वा न भवति । छात्रस्य छात्रेण वा हसितम् ॥
__ अकमेरुकस्य ।२।२।९३॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न भवति । भोगानभिलाषुकः । कमेस्तु दास्याः कामुकः । इति षष्ठी ॥
क्रियाश्रयस्थाधारोऽधिकरणम् ।२।२।३०॥ क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारस्तत्कारकमधिकरणसंज्ञं भवति । क्रियाश्रयस्याधिकरणमाधारसंशं च भवतीति चार्थः। अधिकरणं पोढा-वैषयिकमौपश्लेषिकमभिव्यापकं सामीप्यकं नैमित्तिकमौपचारिकं च ॥
सप्तम्यधिकरणे ।२।२।९५॥ गौणानाम्नोऽधिकरणे कारके सप्तमी भवति विभक्तिः । वैषयिकैम्-दिवि देवाः, मोक्षे इच्छा । औपश्लेषिकम्-कटे आस्ते । अभिव्यापकम्तिलेषु तैलम् , गवि गोत्वम् । सामीप्यम्-वाप्यामश्वः, गुरौ वासः। नैमित्तिकम्-युद्धे सना ते, आतपे ५-अनन्यत्रभावो विषयस्तस्मै प्रभवति वैषयिकम् । २- एकदेशमात्रसंयोग उपश्लेषस्तत्र भवमौपश्लेषिकम् । ३-यस्याधेयेन समस्तावयवसंयोगस्तदभिव्यापकम् । ४-यदाधेयसन्निधिमात्रेण क्रियाहेतुस्तत्सामीप्यकम् । ५-निमित्तमेव नैमित्तिकम् ।