________________
३२८
हैमनूतनलघुप्रक्रिया
4
- द्विषोऽतृशः | २|२|८४ ॥ अतृप्रत्ययान्तस्य द्विष:" कर्मणि गौणान्नाम्नः षष्ठी वा भवति । चौरस्य चौरं वा द्विषन् ॥
कृत्यस्य वा | २|२|८८ || कृत्यस्य कर्तरि गौणान्नाम्नः षष्ठी वा भवति । भवतो भवता वा कार्यः पटः ॥
नोभयोर्हेतोः |२| २८९ ॥ कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्य सम्बन्धिनोः कर्तृकर्मणोरुभयोरेव पष्ठी न भवति । नेतव्या जनकपुरमजा द्विजेन । एकैकहेतोस्तु स्यादेव । उपस्थानीयो गुरुः शिष्यस्य ॥
तृन्नुदन्ताव्ययक्वस्वानातृश शतृङिणकचखलर्थस्य |२| २|१०|| तून उदन्तस्याव्ययस्य का सोरानस्य अतृशः शतु र्डेः णकचः खलर्थस्य च कृतः सम्बन्धिनोः कर्मकर्त्रीः षष्ठी न भवति । तृन् वदिता जनापवादान् । उदन्तःकन्यामलङ्करिष्णुः । अव्ययम् - कटं कृत्वा । क्वसुः ओदनंपेचिवान् । तत्त्वं विद्वान् । आनेति कानशानानशां त्रयाणां ग्रहणम् । कटं चक्राणः, मलयं पवमानः, ओदनं पचमानः । अतृश्- तत्रार्थमधीयन् । शत्रु कटं कुर्वन् । ङि-परिषहान् सासहिः । णकच् - एधानाहारको व्रजति । खलर्थ:-सुज्ञानं तत्त्वं भवता, ईषत्करः कटो भवता ॥
तयोर सदाधारे | २|२९१ ॥ वर्त्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यौ क्तक्तवतू तत्सम्बन्धिनोः कर्मकर्त्रीः