SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया ३२७ रिरिष्टात्स्तादस्ताद सतसाता (२/२/८२॥ रिरिष्टात् - स्तात् - अस्तात् - असू - अतसू - आत् एतत्प्रत्ययान्तैर्युक्ताद् गौणानाम्नः षष्ठी विभक्ति र्भवति । उपरि उपरिष्टाद् वा गृहस्य | एवं परस्तादित्यादौ । पञ्चम्यपवादः ॥ कर्मणि कृतः | २|२|८३ || कृदन्तस्य सम्बन्धिनि कर्मणि गौणान्नाम्नः षष्ठी भवति । द्वितीयापवादः । अपां स्रष्टा, पुरां भेत्ता, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः । उदकस्य पिषः । ग्रामस्य गमनम्, गवां दोहः ॥ कर्तरि |२|२|८६|| कृदन्तस्य कर्तरि गौणान्नाम्नः षष्ठी भवति । तृतीयापवादः । भवत आसिका || वैकत्र द्वयोः | २|२|८५|| द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकतरस्मिन् वा पष्ठी भवति । अन्यत्र पूर्वेण नित्यमेव । अजाया नेता विदेहानां विदेहान् वा । अजाया अजां वा नेता विदेहानाम् ॥ द्विहेतोरणकस्य वा । २।२।८७ || स्त्र्यधिकारविहिताभ्यामकारण काभ्यामन्यस्य कर्तृकर्मषष्ठ्योः प्राप्तिहेतोः कृतः कर्तरि षष्ठी वा भवति । विचित्रा सूत्रस्य कृतिराचार्यस्याऽऽचार्येण वा । आश्चर्यो गवां दोहोऽगोपस्यागोपेन वा । अन्तर्धी येनादर्शनमिच्छति, यस्येति वा ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy