________________
३२६ . हैमनूतनलघुप्रक्रिया दरम् । ग्रामाद ग्रामस्य वाऽन्तिकम् । पक्षे शेषे षष्ठी। एवं विप्रकृष्टसन्निकृष्टादिशब्दयोगेऽपि ।। ___स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे ।२२१७९॥ असत्त्वे करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा भवति । स्तोकात्स्तोकेन वा मुक्तः। एवमल्पादिशब्दयोगेऽपि ॥ इति पञ्चमी । ___अज्ञाने ज्ञः षष्ठी ।२।२।८०॥ अज्ञानेऽर्थे वर्तमानस्य जानातेः सम्बन्धिनि करणे वर्तमानाद गौणानाम्नः षष्ठी विभक्तिर्भवति । सर्विषो जानीते । सर्पिरुपायेन प्रवर्तत इत्यत्र जानातेरज्ञानार्थता । तृतीयापवादः ॥
शेषे ।२।२।८१॥ कर्मादिभ्योऽन्यः क्रियाकारकपूर्वकः कर्माद्यविवक्षालक्षणोऽश्रयमाणक्रियः श्रूयमाणक्रियो वाऽस्येदं भावरूपः स्वस्वामिभावादिः सम्बन्धविशेषः शेषः। तत्र गौणानाम्नः षष्ठी भवति । राज्ञः पुरुषः। जनकस्य पुत्री सीता । पंशोः पादः, क्षीरस्य विकारः, न माषाणामश्नीयात् । सुभाषितस्य शिक्षते । न ते मुखस्य जानते । न तस्य सायमश्नीयात् । अन्नस्य नो देहि ॥
२-यतो द्रव्ये प्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् , असत्त्वरूपेणोच्यमानं द्रव्यादि चाऽसत्त्वम् । ३-स्वस्वामिभावः । ४-जन्यजनकभाषः । ५-अवयवावयिभावः । ६-विकार्यविकारकभावः । ७-फर्माविवक्षा । ८-करणाविवक्षा । ९.-सम्प्रदानाविवक्षा । १०-अपादानाविवक्षा। ११-अधिकरणाविवक्षा ।