________________
हैमनूतनलघुप्रक्रिया ३२५ न्नाम्नः पञ्चमी भवति । ततः प्रभृति, ग्रीष्मादारभ्य, हिमवत आरभ्य गङ्गां यावद् विदेहाः। मैत्राद् भिन्नोऽन्योऽर्थान्तरं व्यतिरिक्तो विलक्षणो हिरुक्पृथग् वा चैत्रः। दिशि दृष्टः शब्दो दिक्शब्दः । ग्रामादुत्तरस्यां दिशि वसति, कौशिक्याः पश्चिमायां विदेहावासाः। गण्डक्याः पूर्वो विदेहजनपदः । पश्चिमो रामाद् युधिष्ठिरः। दिक्शब्देनाऽप्रयुक्तेनापि, क्रोशाल्लक्ष्यं विध्यति । कमेणिक । परेणेति गम्यते । बहिर्गामात् । आराद् ग्रामात् क्षेत्रम् । इतरश्चैत्रान्मत्रः। तस्य द्वितीय इत्यर्थः ।
ऋणाद्धेतोः ।२।२७६॥ हेतुभूतं यदृणं तद्वाचिनो गौणान्नाम्नः पञ्चमी भवति । शताद् बद्धः । शतेन बद्ध इत्यादौ कर्तरि तृतीया। हेतु हि फलसाधनयोग्यः पदार्थः कादिभ्योऽन्य उच्यते इति ध्येयम् ॥
गुणादस्त्रियां नवा । ।२।२:७७॥ अस्त्रियां वर्त्तमानाद् हेतुभूतगुणवाचिनो गौणान्नाम्नः पश्चमी वा भवति । जाड्याज्जाइयेन वा बद्धः, ज्ञानाज् ज्ञानेन वा मुक्तः। खियां तु हेतुतृतीयैव, बुद्धया मुक्तः ॥ - आरादर्थैः ।२।२।७८॥ दूरार्थैरन्तिकाथैश्च शब्दयुक्ताद् गौणानाम्नः पश्चमी वा भवति । ग्रामाद् ग्रामस्य वा १-हेतौ तृतीया ।