SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघु प्रक्रिया इत्येतावसन्धी भवतः । अमुमुईचा | अमी अश्वाः | चादिः स्वरोऽनाङ् | १|२|३६|| आइवर्जितश्वादिगणपठितोऽव्ययसंज्ञकः स्वरः स्वरे परेsसन्धिर्भवति । अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं नु तत् । अनाङिति किम् ? ओष्णम्, एहि ॥ १७ ओदन्तः | १|२|३७|| ओदन्तश्चादिः स्वरे परे असन्धिर्भवति । अहो अत्र ॥ सौ नवेतौ | १|२|३८|| सिनिमित्त ओदन्त इतौ परेऽसन्धिर्वा भवति । पट इति । पक्षे यथाप्राप्तम् || 1 ह्रस्वोऽपदे वा |१| २|२२|| इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा भवति न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे भवतः । दधि अत्र, मधु अत्र । अपदे इति किम् ? नद्यौ, वध्वौ ॥ ॥ इतिश्री मनूतन लघुप्रक्रियायामसन्धिप्रकरणम् ॥ धातोः क्विपि तृतीयैकवचने रूपमिदम् । १ - अदस् पूर्वका २ - आ उष्णम्, आ इहि इति च च्छेदः । अत्र श्लोकः । “ ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित्” ॥ इति । ३ - अवादेशे वकारलोपे च 'पट इति' लोपविकल्पे च 'पटविती' ति । 5 ®
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy