SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२१ है मनून लघु प्रक्रिया ग्रामाय वा गच्छति । आप्ते तु ग्रामं गतः, प्राप्त इत्यर्थः । अत्र ग्रामायेति न भवति || 1 मन्यस्याऽनावादिभ्योऽतिकुत्सने ।२।२।६४ ॥ अतीव कुत्स्यतेऽनेनेत्यतिकुत्सनम् । तस्मिन् मन्यतेराप्ये वर्त्तमानानावादिगणवर्जिताद् गौणान्नाम्नतुर्थी वा भवति । न त्वा तृणाय तृणं वा मन्ये । न त्वां नावं मन्ये । हितसुखाभ्याम् | २|२|६५ || हितसुखाभ्यां युक्ताद् गौणान्नाम्नचतुर्थी भवति वा । साधवे साधोव हितं सुखं वा ॥ तद् भद्रायुष्यक्षेमार्थार्थेनाशिषि | २|२|६६|| हितसुखभद्रायुष्य क्षेमार्थायैर्युक्ताद गौणानाम्न आशिषि गम्यमानायां चतुर्थी वा भवति । हितं सुखं भद्रमायुष्यं क्षेममर्थो वा जीवानां जीवेभ्यो वा भूयात् । एवं हिताद्यर्थैर्युक्तादपि । पथ्यं शे मद्रं दीर्घायुः कुशलं प्रयोजनं वा भूयाज्जीवेभ्यो जीवानां वा ॥ परिक्रयणे | २|२|६७ ॥ परि क्रीयते नियतकालं स्वीक्रियते येन तद्वेतनादि परिक्रयणम् । तस्मिन् वर्त्तमानाद् • गौणामाम्नश्वतुर्थी वा भवति । करणत्वात्पक्षे तृतीया । शवाय शतेन वा परिक्रीतः । सम्भोमाय - परिक्रीतः कर्ता१- नावान्नबुसशुककाकश्वशृगालेति नावादिः । आकृतिप्रणोऽयम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy