SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया .. चतुर्थी ।२।२।५३॥ सम्प्रदाने वर्तमानाद' गौणान्नाम्नो डेभ्यांभ्यसुलक्षणा चतुर्थी विभक्ति भवति । देवाय बलिं ददाति । द्विजाय गामुत्सृजति, शिष्याय धर्ममुपदिशति, राज्ञे कार्यमाचष्टे । एषु कर्मभिर्बल्यादिभिर्देवादयोऽभिसम्बध्यन्ते का । पत्ये शेते, युद्धाय सन्नह्यते, देवेभ्यो नमति, महाराजाय निवेदयति । एषु शयनादिक्रियया पत्यादयोऽभिसम्बध्यन्ते । पुष्पेभ्यः पुष्पाणि वा स्पृहयति । सम्प्रदानसंज्ञापक्षे धातोरकर्मकत्वात्पुष्पेभ्यः स्पृहित इत्यादि । मैत्राय क्रुध्यति, कुप्यति, रुप्यति, द्रुह्यति, अपचिकीर्षत्यपकरोतीर्ण्यति सूय॑ति असूर्यात वा। मैत्रमभिक्रुध्यति अभिद्रुह्यति वा। अभिपूर्वी ऋधिद्रुही सकर्मकौ ॥ ___ तादर्थे ।२।२।५४॥ तस्मा अयं तदर्थस्तस्य भावे तादर्थ्य सम्बन्धविशेषे गम्यमाने गौणान्नाम्नश्चतुर्थी भवति । षष्ठयपवादः । यूपाय दारु, कुण्डलाय हिरण्यम् , रन्धनाय स्थाली ॥ रुचिकृप्यर्थधारिभिःप्रेयविकारोत्तमणेषु ।२।२।५५॥ रुच्यथैः कृप्यर्थे र्धारिणा च धातुना योगे यथाक्रम प्रेये विकारे उत्तमणे च वर्तमानाद् गौणान्नाम्नश्चतुर्थी भवति । प्रेयः प्रीयमाणः। श्रावकाय रोचते स्वदते वा
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy