SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया तेन, अलं वितण्डया, किं गतेन, मृतं बहूक्तेन ॥ व्याप्ये विद्रोणादिभ्यो वीप्सायाम् ।।२।५०॥ व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो गौणान्नामभ्यो वीप्सायां तृतीया वा भवति । द्विद्रोणेने, द्विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति ॥ इतितृतीया । कर्माभिप्रेयः सम्प्रदानम् ।२।२।२५॥ कर्मणा व्यायेन क्रियया वा कारणभूतेन यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसम्बध्नाति तत्कारकं सम्प्रदानसंज्ञं भवति । स्पृहेाप्यं वा ।२।२।२६॥ स्पृहयतेर्धातो ाप्यं वा सम्प्रदानसंज्ञं भवति । कुधदुहेासूयाथै ये प्रति कोपः।२।२।२७॥ कुधाधर्थैर्धातुभियोंगे यं प्रति कोपस्तत्कारकं सम्प्रदानसंज्ञ भवति ॥ नोपसर्गाक्रुधहा ।२।२।२८॥ उपसर्गात्पराभ्यां क्रुधि-हिभ्यां योगे यं प्रति कोपस्तत्कारकं सम्प्रदानसंज्ञं न भवति ॥ .. .१-तृतीयया वीप्सोक्तेर्न द्वित्वम् । द्वितीया तु न वीप्सायामिति तदन्तस्य तत्र द्वित्वम् । .१-क्रोधोऽमर्षः, द्रोहोऽपचिकीर्षा, ईर्ष्या परसम्पत्तौ चेतसो व्यारोषः, ... असूया गुणेषु दोषाविष्करणम् ।।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy