________________
हैमनूत लघुप्रक्रिया
सिद्धौ तृतीया | २|२|४३ ॥ क्रियाफलनिष्पत्तौ गम्यायां कालाध्ववाचिनो गौणान्नाम्नस्तृतीया विभक्ति - भवति व्याप्तौ द्योत्याम् । मासेनावश्यकमधीतम्, क्रोशेन प्राभृतमधीतम् । सिद्धाविति किम् ? मासमधीत आचारो नाऽनेन गृहीतः, अत्र व्याप्तमात्रं गम्यते ||
३१६
साधकतमं करणम् २|२|२४|| क्रियासिद्धौ यत्प्रकृष्टोपकारकत्वेनाऽव्यवधानेन विवक्षितं कारकं तत्साधकतमं तत्करणसंज्ञं भवति ।
हेतुकर्तृकरणेस्थंभूतलक्षणे | २|२|४४ ॥ हेतौ कर्तरि करणे इत्थंभूतलक्षणे चार्थे वर्त्तमानाद् गौणान्माम्नस्तृतीया भवति । हेतौ धनेन कुलम् । विद्यया यशः । कर्त्तरि - चैत्रेण कृतम् । करणे - परशुना छिनत्ति । दानेन लभते भोगान् । यदा तूपदेशमात्रं तदा दानेनेति हेतुमात्रं बोध्यम् । इत्थंभूतलक्षणे=अपि भवान् कमण्डलुना छात्रमद्राक्षीत् ॥ जटाभिस्तापसं जानीयात् । अत्र छात्रत्वादिकं प्रकारमापन्नस्य कमण्डल्वादिकं लक्षणम् ॥
सहार्थे | २|२|४६ || सहार्थस्तुल्ययोगो वर्तमानता च | सहार्थे शब्दादर्थाद्वा गम्यमाने गौणान्नाम्नस्तृतीया
२ -- फलसाधनयोग्यः पदार्थों हेतुः । ३ - इत्थ कञ्चित्प्रकारं भूत आपन्न इत्थंभूतः, स लक्ष्यते येन स इत्थम्भूतलक्षणः । यथा छात्रत्वप्रकारमापन्नः कमण्डलुना लक्ष्यते इति कमण्डलुरित्थम्भूतलक्षणम् ॥