________________
हैमलघुनूतनप्रक्रिया द्वितीया भवति । षष्ठ्यपवादः । अधोऽ'धो ग्रामं ग्रामाः। अध्यधिग्राम क्षेत्राणि । उपर्युपरि ग्रामं ग्रामाः । द्वित्वे इति किम् ? अधो गृहस्य ।।
सर्वोभयाभिपरिणा तसा ।।२।३५॥ सर्वादिभिस्तसन्तयुक्ताद् गौणान्नाम्नो द्वितीया भवति । सर्वत उभयतोऽभितो वा ग्रामं वनानि । परितो ग्राम क्षेत्राणि ।।
उत्कृष्टेऽनूपेन ।२।२।३९॥ उत्कृष्टेऽर्थे वर्तमानादनूपाभ्यां युक्ताद् गौणान्नाम्नो द्वितीया भवति । अनु सिद्धसेनं कवयः। उपोमास्वाति संग्रहीतारः। तस्मादन्ये हीना इत्यर्थः ।।
क्रियाविशेषणात् ।२।२।४१॥ क्रियाया यद्विशेषणं तद्वाचिनो गौणान्नाम्नो द्वितीया भवति । स्तोकं पचति । मुखं शेते ॥ .
कालाध्वनोाप्तौ ।।२।४२॥ व्याप्तिरत्यन्तसंयोगः । सम्बन्धिनीभिर्द्रव्यगुणक्रियाभिर्व्याप्तौ द्योत्यायां कालेऽधनि च वर्तमानाद् गौणान्नाम्नो द्वितीया भवति । मासं गुडधानाः, मासं कल्याणी, मासमधीते, क्रोश पर्वतः, क्रोशं कुटिला नदी, क्रोशमधीते ॥ इति द्वितीया ॥ १-वीप्सायां द्विर्भावः ।