________________
३१४
हैमनूतनलघुप्रक्रिया स्वात्सहैवेति गम्यते। मासमास्ते, मास आस्यते, मासमास्यते । पक्षे मासे आस्ते । क्रोशं स्वपिति, क्रोशः मुप्यते, क्रोशं सुप्यते, क्रोशे सुप्यते । ओदनपाकं शेते, ओदनपाकः शय्यते । ओदनपाकं शय्यते, ओदनपाके शेते । ग्रामं वसति, ग्राम उष्यते, ग्राममुध्यते, ग्रामे उष्यते ॥ - गौणात्समथानिकषाहाधिगन्तरान्तरेणातियेनतेनर्द्वितीया ।२।२॥३३॥ आख्यातपदेनासमानाधिकरणं गौणम् । तस्माद् गौणानाम्नः समयादिभिर्निपातैर्युक्ताद् द्वितीयाविभक्तिर्भवति । षष्ठ्यपवादः। समया निकषा वा पर्वतं नदी। हा देवदत्तं वर्धते व्याधिः । धिग जाल्मम् । अन्तराऽन्तरेण वा निषधं नीलं च विदेहाः । अन्तरेण सम्यक्त्वं न मोक्षः । अति वृद्धं कुरून् महद् बलम् । कुर्वतिक्रमेण वृद्धमित्यर्थः। येन पश्चिमां गतः, तेन पश्चिमां नीतः । येन तेनेति निपातो लक्षणे । बहुवचनात्प्रतियोगेऽपि । बुभुक्षितं न प्रति भाति किश्चित् ।।
द्वित्वेऽधोऽध्युपरिभिः ।।३।३४॥ अधस् अधि उपरि एभियुक्ताद गौणान्नाम्न एषामेव द्वित्वे सति
२-कर्मत्त्वाद्वितीयाऽकर्मकत्वाच्च भावे प्रत्ययः । ३-समीपार्थे द्वयं बोध्यम् । ४-जाल्मोऽसमीक्ष्यकारी ।