________________
हैमनूतनलघुप्रक्रिया वर्तमानस्य हन्ते ाप्यं वा कर्म भवति । चौरं चौरस्य वा निप्रहन्ति निहन्ति प्रहन्ति प्रणिहन्ति वारा ___ अधेः शीस्थास आधारः ।२।२।२७॥ अधेः सम्बद्धानां शीड्स्था-आस् इत्येतेषां य आधारस्तकारकं कर्मसंज्ञं भवति । ग्राममधिशतेऽधितिष्ठत्यध्यास्ते वा मैत्रः॥ ___ उपान्वध्यावसः ।२।२।२१॥ उपान्वध्यापूर्वस्य वसतेराधारः कर्मसंज्ञो भवति । ग्राममुपवसत्यनुवसत्यधिवसत्यावसति वा मैत्रः॥ __ वाऽभिनिविशः ।२।२।२२॥ अभिनीतिविशिष्टोपसर्गसमुदायपूर्वस्य विशतेराधारः कर्मसंज्ञो वा भवति । ग्रामं ग्रामे वाऽभिनिविशते । व्यवस्थितविभाषेयम् । कल्याणेऽभिनिविशते । अत्र कल्याणमिति न प्रयोगः । _____ कालाध्वभावदेश वा कर्म चाकर्मणाम् ।२।२।२३॥ अकर्मकाणां धातूनां प्रयोगे, कालो मुहूर्तादिरूपः, अध्या गन्तव्यं क्रोशादि, भावः क्रिया गोदोहादिरूपा, देशो जनपदग्रामनदीपर्वतादिः-एते आधारभूताः कर्मसंज्ञा वा भवन्ति, अकर्मसंज्ञा अपि वा भवन्ति । सभियोगशिष्ट३-नेमति णः । १-निवसतीत्यर्थः । भोजननिवृत्यर्थयोगे नेति बोध्यम् । ..