________________
३१२
हैमनूतनलघु प्रक्रिया
दिवर्जनं किम् ? नयति भारं चैत्रः, नाययति भारं चैत्रेण । गत्यर्थानामकर्मकाणां च ण्यन्तानां प्रयोज्यमेव कर्म कर्म - प्रत्ययेनोच्यते । गमयति ग्रामं चैत्रम् गम्यते ग्रामं चैत्रः । आसयति मासं मैत्रम्, आस्यते मासं मैत्रत्रेण । बोधार्थीदीनां तु ण्यन्तानामुभयत्र कर्मणि यथेच्छं कर्मणि प्रत्ययः । बोध्यते शिष्यं धर्मः, बोध्यते धर्मे शिष्य इति वा ।
9
स्मृत्यर्थदयेशः | २|२| ११ || स्मरणार्थानां दयतेरीशश्च व्याप्यं कर्म वा भवति । मातरं स्मरति, मातुः स्मरति । सर्पिषो दयते, सर्पिर्दयते, लोकानीष्टे, लोकानामष्टे ॥
1
रुजार्थस्याऽज्वरिसन्तापे भवे कर्तरि |२| २|१६|| पीडार्थस्य धातोर्ध्वरिसंतापिवर्जितस्य व्याप्यं वा कर्मसंज्ञं भवति भावार्थस्य कर्ता भवति । चौरं चौरस्य वा रुजति रोगः । ज्वरिसन्ताप्योस्तु नित्यमेव । आद्यनं ज्वरयति, अत्याशिनं सन्तापयति व्याधिः । भाव इति किम् ? मैत्र रुजति श्लेष्म ।
जासनाटकाथपिषो हिंसायाम् | २|२| १४ || एषां हिंसायां वर्त्तमानानां व्याप्यं कर्म वा भवति । चौरं चौरस्य बोज्जासयति नाटयति क्राथयति पिनष्टि वा ॥
निप्रेभ्यो नः | २|२|१५|| निप्राभ्यां परस्य हिंसायां १ - शेषषष्ठी । २ - श्लेष्मा द्रव्यं, न भावः ।