________________
हैमनूतनलघुप्रक्रिया
३११ धातुषु याचि-जयति प्रभृतिषु नीहृकृष्वहेषु च भवति । दुहादिभ्यः कर्मणि प्रत्यये गौणं कर्मोक्तं भवति, तस्मात्ततः प्रथमा, मुख्याच द्वितीयैव । न्यादिषु तु मुख्यं कर्म कर्मणि प्रत्यये सत्यभिहितमिति ततः प्रथमाऽन्यत्र द्वितीया । गां दोन्धि पयः, गौः पयो दुह्यते । अजां ग्रामं नयति, अजा ग्रामं नीयते ।
गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिवाशब्दायक्रन्दाम् ।२।२।५॥ गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणां च धातूनां नीखाद्यदिवयति-शब्दायति-क्रन्दजितानामणिगवस्थायां यः कर्ता स णौ कर्मसंज्ञो भवति । गच्छति मैत्रो ग्रामम् , गमयति मैत्रं ग्रामम् । बुध्यते शिष्यो धर्मम् , बोधयति गुरुः शिष्यं धर्मम् । भुङ्क्ते बटुरोदनम् , भोजयति बटुमोदनम् । जल्पति मैत्रो द्रव्यम् , जल्पयति मैत्रं द्रव्यम् । शब्दो यदा न क्रिया किन्तु व्याप्यस्तदापि कर्मसंज्ञा, शब्दः कर्म-क्रिया व्याप्यं च येषामित्यर्थात् । शृणोति शब्दं चैत्रः, श्रावयति शब्दं चैत्रम् । आस्ते मैत्रः, आसयति मैत्रं चैत्रः । कालाध्वभावदेशैश्च सर्वेऽपि धातवः सकर्मका एवेत्यन्य-कर्मापेक्षया नित्याकर्मका बोध्याः। नित्यग्रहणमविवक्षितकर्मकत्वेनाकर्मकव्यावृत्तये । तत्र हि वा कर्मसंज्ञा, यथा पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा । न्या१-याचिरिहानुनये इति भिक्षेः पृथङ् निर्देश इति ।