________________
हैमनूतनलघुप्रक्रिया
आमन्त्रये |२| २|३२|| सिद्धस्याभिमुखीकरणं सम्बोधनम्, तदेवेहामन्त्रणम्, तद्विषय आमन्त्र्यः । तस्मिन्नर्थेः वर्त्तमानानाम्न एकद्विवौ यथासंख्यं प्रथमा विभक्ति भवति । हे वीतराग ! हे मुने ! ॥
३१०
कर्तुर्व्याप्यं कर्म | २२|३|| कर्त्रा क्रियया यद्विशेषेणाप्तुमिष्यते तद्व्याप्यम्, तत्कारकं कर्मसंज्ञं भवति, यत्कर्म कर्त्रा क्रियते तद् व्याप्यसंज्ञं भवतीत्यपि सूत्रार्थः ।
कर्मणि द्वितीया | २२|४०|| गौणान्नाम्नः कर्मणि कारके द्वितीया भवति । तत्कर्म त्रेधानिय विकार्य प्राप्यं च । यदसज्जायते जन्मना वा प्रकाश्यते तद् निर्वर्यम्, यथा घटं करोति, सुतं प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद्विकृतिमापाद्यते तद् विकार्यम्, यथा काष्ठं दहति, यष्टिं तक्ष्णोति । यत्र क्रियया कृतो विशेषो नास्ति तत्प्राप्यम्, यथा - जिनबिम्बं पश्यति । सम्यक्त्वं प्रतिपद्यते । कर्मादिप्रत्ययेनोकमर्थमात्रमित्युक्ते - रुक्ते कर्मादौ प्रथमैवेति कर्मादावनुक्त एव द्वितीयादिकं बोध्यम् । एवं त्रिविधमप्येतदिष्टानिष्टानुभयभेदात्त्रिविधम् । तदेतन्नवविधमपि कर्म प्रधानगौण भेदादष्टादशविधम् । प्रधानक्रियाजन्यफलाश्रयः प्रधानमितरदप्रधानम् । यदर्थं क्रियाऽऽरभ्यते तत्प्रधानम्, तत्सिद्धये तु यदन्यत्क्रियया व्याप्यते तदप्रधानमिति यावत् । एतद् द्वैविध्यं च दुहि-भिक्षि- रुधि- प्रच्छि- चिग्- ब्रूग् - शास्वर्थेषु