________________
हैमनूतनलघुप्रक्रिया स्वतन्त्रः कर्ता ।।२।२॥ क्रियाया जनकः क्रियासिद्धावपराधीनः प्राधान्येन विवक्षितः कारकविशेषः कर्तृसंज्ञः स्यात् ॥
नाम्नः प्रथमैकद्विवहौ ।२।२॥३१॥ एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानानाम्नः परा यथासंख्यं सि औ जस् लक्षणा प्रथमा विभक्ति भवति । द्वितीयादिविध्यन्यथानुपपत्त्या कर्मवाद्यतिरिक्तेऽर्थमात्रे प्रथमा भवति । कर्मादिरज्यभिहितोऽर्थमात्रमिति बोध्यम् । एवं लाक्षणिकमलिङ्गमसङ्ख्यं शक्तिप्रधानं द्योत्यमपि चार्थमात्रमेव । तदयं सक्षेपःद्वितीयादिविनिमुक्तो नामाऽर्थोऽर्थमात्रं, स्वार्थद्रव्यलिङ्गसंख्याकारकलक्षणः समग्रोऽसमग्रो वा। तत्र शब्दस्यार्थे प्रवृत्तिनिमित्तं स्वरूपजातिगुणक्रियाद्रव्यसम्बन्धादिरूपं त्वतदिप्रत्ययवाच्यं स्वार्थः । वरूप-डित्थः, डवित्थः । बातौ-गौः, अश्वः । गुणे-शुक्लः, कृष्णः। क्रियायाम्कारकः, पाचकः। द्रव्ये-दण्डी, कुण्डली । सम्बन्धेराजपुरुषः ॥ Ex-तदुक्तं शब्दमहार्णवन्यासे
"निष्पत्तिमात्रे कर्तृत्वं, सर्वत्रवास्ति कारके । व्यापारभेदापेक्षायां, करणत्वादिसम्भवः ॥१॥ फलार्थी यः स्वतन्त्रः सन् , फलायारभते क्रियाम् । नियोक्ता परतन्त्राणां, स कर्ता नाम कारकम् ॥२॥". इति ।