________________
हैमनूतनलघुप्रक्रिया स्माद्धन्तेः कषेश्च तस्यैव धातोः सम्बन्धे सति णम् वा भवति । समूलघातं हन्ति । समूलं हन्तीत्यर्थः। समूलकाषं कषति समूलं कषतीत्यर्थः॥ ___ व्याप्याच्चेवात् ।।४।७१॥ व्याप्यारकर्मणश्वकारास्कर्तुश्चोपमानार्थात्परस्तस्यैव धातोः सम्बन्धे सति णम् वा भवति । सुवर्णनिधायं निहितः। सुवर्णमिव निहित इत्यर्थः । काकनाशं नष्टः । काक इव नष्ट इत्यर्थः । इति क्त्वादिप्रत्ययाधिकारः । अयमेवोत्तरकृदन्त इत्यप्युच्यते ॥
॥अथ कारकप्रकरणम् ॥ क्रियाहेतुः कारकम् ।।२।१॥ क्रियायाः कारणं फर्नादि कारकसंज्ञं भवति । क्रिया हेतुश्च पदार्थानां क्रियानिर्वतिका शक्तिः, तस्माच्छक्तिः कारकम् । सा च सहभूर्यावद्रव्यभाविनी च क्रियाकाल एव व्यज्यते इति क्रियायोग एव कारकमिति क्रियाशून्यस्य हेत्वादेः क्रियायां निमित्तत्वेऽपि न कारकत्वम् ॥ १-मूलमप्यपरित्यज्येति समूलम् । साकल्येऽव्ययीभावः, मूलेन सह वर्तते इति बहुव्रीहिर्वा । णिति घादिति घात् । २-णमि आत ऐरित्येः, आयादेशः । ३-फलव्यापारौ धात्वर्थः क्रियोच्यते । फलयापारयोवैयधिकरण्ये सकर्मिका, तयोः सामानाधिकरण्ये सकर्मिका सोच्यते । इय क्रिया पदार्थशक्त्यैव निवर्त्यते इति शक्तिः कारकम् । तत्र कर्ता स्ववृत्तिव्यापारनिवर्तकः, कर्म च स्ववृत्तिफलनिर्वर्तकम् । करणादिकं च परवृत्तिक्रियानिर्वर्तकम् ।