________________
हैमनूतनलघुप्रक्रिया
३०७ मका विदो गृह्यन्ते, व्याप्यात् परेभ्य इत्युक्तेः । अतिथिवेदं भोजयति । यं यमतिथिं जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः । कन्यादर्श वरयति, यां यां कन्या पश्यति तां तां सर्वा वरयतीत्यर्थः । अकात्स्न्ये तु अतिथि विदित्वा भोजयति, कन्यां दृष्ट्वा वरयति ॥ - यावतो विन्दजीवः।५।४।५५॥ कात्स्न्ये यावच्छब्दा. त्पराभ्यां विन्दजीविभ्यां तुल्यकर्तकेऽर्थे वर्तमानाभ्यां धातोः सम्बन्धे णम् वा भवति । यावद्वेदं भुकते । यावल्लभते तावद् भुछते इत्यर्थः । जीवेरपूर्वकाल एव । यावज्जीवमधीते । यावज्जीवति तावदधीत इत्यर्थः ।।।
कृग्ग्रहोऽकृतजीवात् ।५।४।६१॥ अकृतजीव इत्ये- . ताभ्यां व्याप्याभ्यां पराभ्यां यथासङ्ख्यं करोतिगृह्णातिभ्यां तस्यैव धातोः सम्बन्धे सति णम् वा भवति । अकृतकार करोति, अकृतं करोतीत्यर्थः । जीवग्राहं गृह्णाति, जीवन्तं गृह्णातीत्यर्थः॥
शुष्कचूर्णरूक्षास्पिषस्तस्यैव ।५।४।६०॥ शुष्कचूर्णरूक्षेभ्यो व्याप्येभ्यः परात्पिपर्णम् वा स्यात्तस्यैव धातोः सम्बन्धे सति । शुष्कपेषं पिनष्टि, शुष्कं पिनष्टीत्यर्थः । एवं चूर्णपेषं, रूक्षपेषम् ॥
हनश्च समूलात् ।।४।६३॥ समूलशब्दव्याप्यात्पर