________________
हैमनूतन लघुप्रक्रिया
यथातथादीयोंत्तरे |५|४|५१ || यथातथाशब्दाभ्यां परात्तुल्यकर्तृकेऽर्थे वर्त्तमानादनर्थकात्करोतेर्धातोः सम्बन्धे सति ख्णम् वा भवति ईर्ष्यश्चेत् पृच्छते उत्तरं ददाति । कथं भवान् भोक्ष्यते इति पृष्ट ईष्या आह-यथाकारमहं भोक्ष्ये तथाकार महं भक्ष्ये किं तवानेन । ईष्योंत्तर इति किम् ? यथात्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ।
३०६
शापे व्याप्यात् |५|४|१२|| व्याप्यात् - कर्मणः परातकर्तृकेऽर्थे वर्त्तमानात्करोतेर्धातोः सम्बन्धे रुणम् वा भवति शापे गम्यमाने । इह कृग् नाऽनर्थकः । शाप आक्रोशः । चौरेङ्कारमाक्रोशति । चौरं कृत्वेत्यर्थः । चौरशब्दमुच्चार्येति तात्पर्यम्। त्वं चौर इत्येवमाक्रोशतीति यावत् । शाप इति किम् ? यथार्थकथने मा भूत् । चौरं कृत्वा हेतुभिः कथयति । अत्र पाक्षिकोऽपि ख्णम् न ॥
स्वार्थाददीर्घात् | २|४|५३ || स्वाद्वर्थे वर्त्तमानाच्छब्दाददीर्घान्ताद् व्याप्यात्परात्तुल्यकर्तृकेऽर्थे वर्त्तमानात्करोतेः धातोः सम्बन्धे ख्णम् वा भवति । स्वादुङ्कारं भुङ्क्ते ॥
विग्भ्यः कात्स्न्यै णम् |५|४|५४ || कास्यै व्याप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानेभ्यो विदिभ्यो दृशेश्व धातोः सम्बन्धे णम् वा भवति । इह सक१ - खित्यनव्ययेति मोन्तः, मुमो ध्यञ्जने स्वाविति स्वानुस्वारानुनासिकौ ।