________________
हैमनूतनलघुप्रक्रिया
३०५. वाऽमः ।४।२।५७॥ यमिरमिनमिगमीनां मान्तानामन्तस्य यपि प्रत्यये लुग् वा भवति । निपत्य, नियम्य, विरत्य, विरम्य, प्रणत्य, प्रणम्य, आगत्य, आगम्य ॥ .
रुणम् चाऽऽभीक्ष्ण्ये ।५।४।४८॥ आभीक्ष्ण्ये परकालेन तुल्यकत के प्राक्कालेऽर्थे वर्तमानाद्धातोः सम्बन्धे ख्णम् भवति । चकारात् क्त्वा च भवति ॥ . भृशाभीक्ष्ण्याविच्छेदे द्विःप्राक्तमबादेः।७।४।७३॥ भृशाभीक्ष्ण्याविच्छेदेषु द्योत्येषु यत्पदं वाक्यं वा वर्तते तत्तमबादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते । भृशं कात्स्न्य नेत्यर्थः। आभीक्ष्ण्यम् पौनःपुन्यम् , अविच्छेदः सातत्यम् । भोज भोज वनति, मुक्त्वा भुक्त्वा । आमीक्ष्ण्ये द्विरुक्तिः ॥ घाट घाटं घटं घटं वा ददाति ॥ ___ अन्यथैवकथमित्थमः कृगोऽनर्थकात् ।।४।५०॥ अन्यथा एवं-कथम्-इत्थम् एभ्यः परात्तुल्यकतकेऽर्थे वर्तमानाकरोतेरनर्थकाद् धातोः सम्बन्धे ख्णम् वा भवति । अन्यथाकारमेवंकारं कथंकारमित्थंकारं वा भुङ्क्ते । अन्यथैवं कथमित्थं वा भुकते इत्यर्थः। अनर्थकादिति किम् ? अन्यथाकृत्वा शिरो भुङ्क्ते । अत्र कृगोऽप्रयोगे शिरसः कर्मत्वं न स्यात् । ३-अदुरुपसर्गान्तरेणेति णः । ४-चजः कगमिति गः । अबोषे प्रथम
इति प्रथमः । ५-घटादेरिति वा दीर्घः । २०
-