________________
हैमनूतनलघुप्रक्रिया परे यथासंख्यम् अय् आय इत्येतावादेशौ भवतः। ने+ अनम्न यनम् । नै+अक: नायकः ॥ .
ओदौतोऽवाव ।१।२।२४॥ ओकारौकारयोः स्थाने स्वरे परे यथासंख्यम् अव् आव् इत्येतावादेशौ भवतः। लो+अनम् लवनम् । लौ+अक:=लावकः ॥
व्यक्ये ।१।२।२६॥ ओकारौकारयोः स्थाने क्यवजिते यकारादौ प्रत्यये परे यथासंख्यमब् आव इत्येतावादेशो भवतः । गव्यति । नाव्यति ।
स्वरे वा ।१।३।२४॥ अवर्ण-भो-भगो-अधोभ्यः परयोः पदान्ते स्थितयोर्वकारयकारयोः स्वरे परे लुग् वा भवति, लुकि सत्यां च न सन्धिः । त आगताः, तयागताः। तस्मा इदं, तस्मायिदम् । पट इह, पटविह । वृक्षा इह, वृक्षाविह।
स्वरे वानऽक्षे शस२९॥ गोरोकारस्य पदान्ते स्थितस्य स्वरे परे अव इत्यकारान्त आदेशो वा भवति, स चेत्स्वरोऽक्षशब्दस्थो न भवति । पक्षे यथाप्राप्तम् ।।
एदोतः पदान्तेऽस्य लुक ।।२।२७॥ पदान्तस्थाभ्यामेदोभ्यां परस्याकारस्य लुगू भवति । गकांग्रेस, मोऽनम् । गवेशः, गवीशः॥ १-अत्राऽसन्धौ सति गो अग्रमित्येवमपि रूपमिति रूपत्रयम् । २-वकारलोपे ग ईश इत्यपि ।