SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २९९. समुदायो वा, व्यजत्यनेन व्यजः, खलन्त्यस्मिन् खलः, एत्यः पणायन्त्यस्मिन्नित्यापणः, निगमो देशादिः, वक्तीति बकः,. बाहुलकात्कर्तरि घः, निपातनाद् बः । भगः। अधिकरणे-- कष आकषो निकषः॥ ___व्यञ्जनाद घञ् ।५।३।१३२॥ व्यञ्जनान्ताद् धातो:पुंनाम्नि करणाधारे घञ्प्रत्ययो भवति । घापवादः । वेदः, एत्य पचन्त्यस्मिन्नित्यापाकः, आरामः, लेखः, बन्धः, वेगः रागः, रङ्गः क्रमः॥ ___ रभोऽपरोक्षाशवि ।४।४।१०३॥ रमतेः स्वरात्परः परोक्षाशव्वजिते स्वरादौ प्रत्यये परे नान्तो भवति । आरम्भः । भावेघञ् । लभः।४।४।१०४॥ लभते स्वरात्परः परोक्षाशववर्जिते स्वरादौ प्रत्यये परे नोन्तो भवति । लम्भनम् , भावेऽनट् । घव्युपसर्गस्य बहुलम् ।३।२।८६॥ घान्ते उत्तरपदे परे उपसर्गस्य बहुलं दीर्घोऽन्तादेशो भवति । प्रासाद.॥ अवात् तृस्तृभ्याम् ।५।३।१३३॥ अवपूर्वाभ्यां ४-विपूर्वादधातोनिपातनाद्वीभावो न । ५-६-७-क्तेऽनिट इति. को गश्च यथायथम् । १-णिति वृद्धिः । २-विज़ धातुः, क्तेऽनिट इति गः । ३-उपान्त्य-- वृद्धिः, क्तेऽनिट इति गः । अधिकरणे तु न नलोप इति रङ्गः, म्नामिति पञ्चमः । ४-एवं शमादयोऽपि, मोऽकमीति वृद्धिनिषेधः। ५-उपान्त्यवृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy