________________
३००
हैमनूतनलघु प्रक्रिया
-तृस्तृभ्यां करणारयोः पुंनाम्नि घञ् प्रत्ययो भवति । अवतारः, अवस्तारः । बाहुलकादुत्तारः ॥
যখখ
न्यायावायाध्यायोद्यावसंहारावहाराधारदार
जारम् ||५|३|१३४|| एते शब्दाः पुंनाम्नि करणाधारयोन्ता निपात्यन्ते । न्यायः, आ वयन्ति वायन्ति वा तत्रेस्यावायः, अर्ध्यायः, उद्यावः संहारः, अवहारः, आधारः, दारों: पुंसि च भूम्न्येव । जारः ॥
इति स्वरूपार्थे | ५|३|१३८ || स्वरूपेऽर्थे चाभिधे इ-क - विइत्येते प्रत्यया भवन्ति । भञ्जिः, क्रुधिः, वेत्तिः । अर्थे - यजेरङ्गानि, भुजिः क्रियते, पचति वर्त्तते ॥
1
दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल् |५|३|१३९ ॥ कृच्छ्रं दुःखमकृच्छ्रं सुखम् । कृच्छ्रार्थवृत्ते दुरोऽकृच्छ्रार्थवृत्तिभ्यां स्वीषद्भ्यां पराद् धातो भविकर्मणोरर्थयोः खल्प्रत्ययो भवति । कृत्यादीनामपवादः । दुःखेन सुखेनेषद्वा शय्यते इति दुःशयं सुशयमीषच्छेयं भवता ॥
निर्दुर्बहिराविष्प्रादुश्चतुराम् | २|३|९|| निरादीनां सम्बन्धिनो रेफस्य कखपफेषु परेषु षो भवति । दुष्करः
६ - निपूर्व इण् धातुः । ७- वे सन्ध्येत्यात्वबाधः । ८-अधि पूर्व धातुः । १० ०—दृधातुः । ११ १- धातुः १ - तवर्गस्येति च:, प्रथमादिति छः
धातुर्वैधातुर्वा । निपातनादात्इङ् धातुः । ९ - उदुपसर्गे यु । १२ - रितवः शित्त्वाच्छविरूपम् । । २- निस् दुसिति षः ।