________________
२९८
हैमनूतनलघुप्रक्रिया नम् , वसनम् , आभरणम् । प्रपतत्यस्मादिति प्रपतनः, प्रस्रवणः, अपादानम् ॥
करणाधारे ।५।३।१२९॥ करणाधारयोरर्थयोर्धातोरनट् भवति । घाद्यपवादः । करणे-एषणी, लेखनी। आधारेमत्स्योधानी, मसिधानी, शयनम् , आसनम् , अधिकरणम् ॥
पुनाम्नि घः ।५।३।१३०॥ पुंसोनाम संज्ञा पुंनाम, तत्र गम्यमाने धातोः करणाधारयोरर्थयोघेः प्रत्ययो भवति । ____एकोपसर्गस्य च घे।४।२।३४॥ एकोपसर्गस्याऽनुप-. सर्गस्य च छदेपरे णौ हृस्तो भवति । प्रैच्छदः, दन्तच्छदः, प्लवः, प्रणवः, करः, प्रत्ययः, शरः, आधारे-एत्य कुर्वन्त्यस्मिन्नित्याकरः, भवः, लयः, विषयः, भरः, प्रहरः, प्रसरः, अवसरः॥
गोचरसंचरवहव्रजव्यजखलापणनिगमबकभगकषाकषनिकषम् ।५।३।१३१॥ गोचरादयः शब्दा यथायथं करणाधारयोर्घप्रत्ययान्ता निपात्यन्ते । घोऽपवादः। गावश्चरन्त्यस्मिन्निति गोचरो देशः । व्युत्पत्तिमात्रमिदम् , विषयस्य तु संज्ञा, अन्यद्धि व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । "अनेकान्तात्मकं वस्तु, गोचरः सर्वसंविदाम्" । करणे संचरोऽश्वादिः। वहो वृषस्कन्धदेशः। अधिकरणे-व्रजो गोठं १-स्त्रियामणजेत्यादिना डीः। अस्य ड्यामित्यलोपः । २-णावुपान्त्यवृद्धिः, एकोपसमेति हस्वः, णिलोपः, स्वरेभ्य इति द्विः। ३-अदुरुपसर्गेति णः ।