________________
२९७
हैमनूतनलघुप्रक्रिया वचनम् । सर्वा कारिकामकार्षम् ॥
भावे ।५।३।१२२॥ भावे धात्वर्थनिर्देशे, स्त्रियां धातोर्णकः प्रत्ययो भवति । आसिका, जीविका, कारिका । बाहुलकाद-ईक्षा, ईहा, ऊहेत्यादि । __ क्लोवे क्तः ।५।३।१२३॥ क्लीबे भावेऽर्थे धातोः क्तप्रत्ययो भवति । घनाद्यपवादः । हसितं छात्रस्य । स्मितं मुनेः । नृत्तं मयूरस्य ॥ ____अनट् ।५।३।१२४॥ क्लीबे भावेऽर्थे धातोरनट् प्रत्ययो भवति । गमनं भोजनं वचनं हसनं वा छात्रस्य ।
उपसर्गात् खल्घनोश्च ।४।४।१०८॥ उपसर्गात्परस्य लभेः स्वरात्परः खल्धोबिख्णमोश्च परयोोंन्तो भवति । उपलम्भनम् ।
रम्यादिभ्यः कर्तरि ।५।३।१२६॥ रम्यादिभ्यो धातुभ्यो यथादर्शनं कर्तर्यनट् प्रत्ययो भवति । रमणः, रमणी, कमनः, कमनी । कामनः कामनी । ___ कारणम् ।५।३।१२७।। कृगः कर्तर्यनट् वृद्धिश्च निपात्यते । करोतीति कारणम् । कतरीति किम् ? करणम् ॥
भुजिपत्यादिभ्यः कर्मापादाने ।५।३।१२८।। भुज्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथासंख्यं कर्मण्यपादाने चानट् भवति । भुज्यते तदिति भोजनमपूपादि । आच्छाद
५-स्त्रियामणजेत्यादिना टित्त्वान्डोः । अस्य यामित्यलोपः । ६-णावुपान्त्यवृद्धिर्णिलोपः, स्वरेभ्य इति द्विः ।