________________
हैमनूतनलघुप्रक्रिया औकारादेशो भवति । ओदपवादः । धौतः, धौतवान् ॥
प्रस्यैषैष्योढोढ्यूहे स्वरेण ।१।२।१४॥ प्रशब्दसम्ब-- न्धिनोऽवर्णस्य एष-एष्य-ऊढ-उढि-ऊह इत्येतेषु परेषु परेण स्वरेण सहितस्य स्थाने ऐदौतावादेशौ स्तः । प्रैषः, प्रेष्यः, प्रौढः, प्रौढिः, प्रौहः ॥
स्वैरस्वैर्यक्षौहिण्याम् ॥१॥२॥१५॥ खैर-स्वैरिन्अक्षौहिणीत्येतेषु शब्देषु अवर्णस्य परेण स्वरेण सहितस्य स्थाने ऐत् औत् इत्येतावादेशौ भवतः। स्वैरैः, स्वैरी, अक्षौहिणी ॥ ___ अनियोगे लुगेवे ।१।२।१६॥ नियोगो नियमः, तदभावोऽनियोगोऽनियमः, तद्विषये एवशब्दे परेऽवर्णस्यः लुकू स्यात् । इहेव तिष्ठ । नियोगे तु न । इहैव तिष्ठ मा गाः॥ __वौष्ठीतो समासे ।१।२।१७। ओष्ठशब्दे ओतुशब्दे च परेऽवर्णस्य लुग् वा स्यात्समासे । बिम्बोष्ठी, बिम्बौष्ठी। स्थूलोतुः, स्थूलौतुः॥ __ओमाङि ।१।२॥१८॥ अवर्णस्य ओमि आङादेशे च परे लग् भवति । अघोङ्कारः । आ ऊढाओढा, अघोढा । आ इहि एहि, उपेहि ॥
१-धा+ऊतः । २-स्व+ईरः । ___३-निमित्तनिमित्तिनावेकत्रैव समासे चेद् भवत इत्यर्थः ।