________________
हैमनूतनलघुप्रक्रिया
ऋकारेण सहितस्य आरित्ययमादेशो भवति । अरोऽपवादः। प्रार्णम् , ऋणार्णम् ॥ __ ऋते तृतीयासमासे ॥१॥२८॥ अवर्णस्य ऋतशब्दे परे परेण ऋकारेण सहितस्य स्थाने भारित्ययमादेशो भवति तृतीयासमासे । शीतेन ऋतः शीतात इत्यादि ॥
ऋत्यारुपसर्गस्य ।१।२।९॥ उपसर्गस्य सम्बन्धिनोऽवर्णस्य ऋकारादौ धातौ परे परेण ऋकारेण सहितस्य स्थाने आरादेशो भवति । सर्वापवादः ॥ ...
षष्ठ्या अन्तस्य ।७।४।१०६॥ षष्ठ्या निर्दिष्टे यत्कार्यमुच्यते तत् षष्ठीनिर्दिष्टस्यैव योऽन्त्यस्तस्य स्थाने भवति न तु समस्तस्य ॥
प्राईति, उपार्छति ॥
ऐदौत्सन्ध्यक्षरै : ।१।२।१२॥ अवर्णस्य सन्ध्यक्षरैः परैः सहितस्य स्थाने ऐत् औत् इत्यादेशौ भवतः । तवैषा, महा+ऐश्वर्यम्-महैश्वर्यम् , तबौदनः, खट्वौपगवः ॥
ऊटा ।१।२।१३।। अवर्णस्य परेण ऊटा सहितस्य स्थाने १- निमित्तनिमित्तिनोरेकत्र तृतीयासमासे सतोरित्यर्थः । २- आरित्यनुवृत्यैव सिद्धे आर् प्रहणस्य आरेव यथा स्यादिति
नियमार्थत्वात् । तेन इस्वो न भवत्ति । उपसर्गाःप्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः। उप-आङिति विंशतिरेष सखे उपसर्गगणः कथितः कविभिः ॥१॥