________________
हैमनूतनलघुप्रक्रिया
२९१ अन्तर्द्धिः ।५।३।८९॥ अन्तःपूर्वाद धाधातोर्भावाकों: किः प्रत्ययो निपात्यते ॥ अन्तधिः ।
स्त्रियां क्तिः ।५।३।९१॥ धातो वाकोंः स्त्रीलिङ्गे क्तिः प्रत्ययो भवति । घनादेरपवादः। कृतिः, मैतिः, लूनिः, जन्धिः ॥
सातिहेतियूतिजूतिज्ञप्तिकीति ।५।३।९४॥ एते शब्दाः खियां भावाकों: क्तिप्रत्ययान्ता निपात्यन्ते । सिनोतेः सुनोः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते । सातिः । हिनोतेर्गुणे हन्तेर्वाऽन्त्यस्वरादेरे-वे हेतिः । यौतेजवतेश्च दीर्घत्वे यूतिः, जूतिः। ज्ञपय ते प्तिः। कीर्तयतेः कीर्तिः॥
गापापचो भावे ।५।३९५।। एभ्यो भावेऽर्थे स्त्रियांतिर्मवति । गा इति सामान्यग्रहणम् । प्रैगीतिः, गीतिः पिबतेः प्रपोतिः, पचतेः पंक्तिः॥ __स्थो वा ।।३।९६॥ तिष्ठतेर्भावेऽर्थे स्त्रियां क्तिवा भवति । स्थितिः, उपस्थितिः। पक्षेऽङ ॥
१-यमिरमीति मलोपः । २-ऋल्वादेरिति नः । ३-यपि चेति जग्धादेशे
अध इति चत्वे धुटो धुटीति धलोपः । ४-सुनोतेः सिनोतेर्वाऽऽत्वं स्यतेरात्वमित्वाभावश्च । ५-णेरनिटीति णिलोपः । ६-ईय॑जन इतीत्वम् । ७-च नः कगम् । ८-दो सो इतीत्वम् ।।