SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८३ हैमनूतनलघुप्रक्रिया ___ भनिभासिमिदो घुरः ।५।२।७४॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घुरः प्रत्ययो भवति । भज्यते इत्येवं-.. शीलं भङ्गुरं काष्ठम् । भासुरः। मेदुरः। . वित्ति छिद भिदः कित् ।५।२।७५।। एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः किद् घुरः प्रत्ययो भवति। वेत्तीत्ये-- वंशीलो विदुरः, छिद्यते भिद्यते स्वयमेव छिदुरः, भिदुरः॥ भियो रुरुकलुकम् ।५।२१७६।। शीलादौ सत्यर्थे वर्तमानाद् विभेते रु-रुक-लुक इति प्रत्ययत्रयं किद् भवति । भीरुः, भीरुकः, भीलुकः ॥ सृजीण्नशष्ट्व रप् ।५।२।७७॥ मृ-जि-इण्-नश् एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः कित् ट्वरप् प्रत्ययो भवति । प्रसरणशीलः प्रसंत्वरः, जित्वरः इत्वरः, नश्वरः॥ गत्वरः ।५।२७८॥ गमेष्ट्वरप् मकारस्य च तकारो निपात्यते । गत्वरी ॥ स्म्यजसहिंसदोपकम्पकमनमो रः ।५।२१७९॥ स्म्यादिभ्यः शीलादौ सत्यर्थ वर्तमानेभ्यो र प्रत्ययो भवति । स्मयनशीलं स्मेरं मुखम् । जसूच् मोक्षणे, न जस्यतीत्यजस्रम् । १-क्तेऽनिट इति गः । म्नामिति पञ्चमो ङः । २-हस्वस्य त इति तोन्तः, एवमग्रेऽपि । ३-नअत् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy