SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८२ हैमनूतनलघुप्रक्रिया रूकः प्रत्ययो भवति । जागरूकः ।। - शमष्टकाद घिनण ।५।२।४९॥ शीलादौ सत्यर्थे वर्तमानेभ्यः शमादिभ्योऽष्टाभ्यो धातुभ्यो घिनण् प्रत्ययो भवति ॥ शाम्यतीत्येवंशीलः शमी । मोऽकमीति वृद्धिनिषेधः । तमी, दमी, श्रमी, भ्रमी, क्षमी, प्रमादी, उन्मादी । अकर्मकादित्येव, तेन 'अरण्यं भ्रमिता', तन् । युजभुजभजत्यजरञ्जद्विषदुषद्रुहदुहाऽभ्याहन : ।५।२।५०॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घिनण् भवति । योगी, भोगी, भागी, त्यागी, रागी, द्वेषी, दोषी, द्रोही, दोही, अभ्याघाती। अकर्मकादित्येव, गां दोग्धा, तुन् ॥ वृभिक्षिलुण्टिजल्पिकुट्टाहाकः ।५।२।७२॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः टाकः प्रत्ययो भवति । वृणीते इत्येवंशीलो वराकः, वराकी, भिक्षाकः, लुण्टाकः, कुट्टाकः, जल्पाकः ॥ - सघस्यदो मरक ।५।२।७३॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो मरक् प्रत्ययो भवति । सरणशीलः समरः,. घस्मरः, अमरः॥ ३-णितीति वृद्धिः । ४-कोऽनिट इति गः । ५-अकघिनोरिति नलोपः । ६-णिति घादिति घादादेशः । ७-स्त्रियां टित्त्वान्डीः, एवमन्यत्रापि ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy