________________
२८१
हैमनूतनलघुप्रक्रिया सन् भिक्षाशंसेसः ।५।२॥३३॥ शीलादौ सत्यर्थे तमानात्सन्नन्ताद् धातोभिक्षराशंसेश्च पर उ: प्रत्ययो भवति । चिकीर्षुः, भिक्षुः, आशंसुः ॥
विन्द्वीच्छु ।५।२॥३४॥ शीलादौ सत्यर्थे वर्तमानाद् वेत्तेरिच्छतेश्च उः प्रत्ययो यथासंख्यं नोपान्त्य-छकारान्तादेशौ च निपात्येते। वेदनशीलो विन्दुः, एषणशील इच्छुः। बिन्दुः प्रकृत्यन्तरमौणादिकः ॥
शवन्देरारु : ।५।२।३५॥ शीलादौ सत्यर्थे वर्तमानाभ्यां शृश्बन्दिभ्यामारुः प्रत्ययो भवति । विशरारुः, वन्दारुः ॥
शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः 1५।२॥३७॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य आलु: प्रत्ययो भवति । शयालुः। श्रत्पूक़ धाग्-श्रद्धालुः, निद्रालुः। तद् द्राति-तन्द्रालु । निपातनात्तदो दस्य नः। पतिगृहिस्पृहयोऽदन्ता चौरादिकाः। पतयालं, गृहयालः, स्पृहयालुः ॥
जागुः ।।२।४८॥ शीलादौ सत्यर्थे वर्तमानाज्जागर्ने७-अत इत्यल्लोपः, कृगः सनि चिकर्ष इत्यत उर्बोध्यः ।। १- गुणायादेशौ। २-णिच्यत इत्यलोपः, स्वरस्य परे इति स्थानिवत्त्वान्न वृद्धिः, गुणायादेशौ ।