SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८० inप्रक्रिया भ्राज्यलंकृग्निराकृम्भूसहि रुचिवृतिवृधिचरिप्र जनापत्रप इष्णुः | ५|२|२८|| एभ्यः शीलादिसत्यकें वर्त्तमानेभ्य इष्णुः प्रत्ययो भवति । भ्राजनशीलो भ्राजन - धर्मा साधु भ्राजते वा भ्राजिष्णुः । अलं पूर्वः कृग्अलंकरिष्णुः । निर्-आ- कृग् - निराकरिष्णुः । भू-भविष्णुः, सहिष्णुः, रोचिष्णुः, वर्तिष्णुः, वर्धिष्णुः, चरिष्णुः । प्रजन् प्रजनिष्णुः । अप त्रप् - अपत्रपिष्णुः ॥ उदः पचिपतिपदिमदः | ५|२२९ ॥ उत्पूर्वेभ्यः शीलादिसत्यर्थे वर्तमानेभ्य एभ्य इष्णु र्भवति । उत्पचिष्णुः, उत्पतिष्णुः, उत्पदिष्णुः, उन्मदिष्णुः ॥ भूजेः ष्णुक् |५|२|३०|| शीलादौ सत्यर्थे वर्तमाना # भ्यां भूजिभ्यां ष्णुक् प्रत्ययो भवति । भूष्णुः, जिष्णुः ॥ म्लापचिपरिमृजिक्षेः स्नुः | ५|२|३१|| एभ्यः शीलादौ सत्यर्थे वर्त्तमानेभ्यः स्तुप्रत्ययो भवति । स्थास्नुः, ग्लौस्तुः, म्लास्तुः, पणुः, परिमोक्ष्णुः, क्षेणुः ॥ सिगृधिघृषिक्षिपः क्नुः | ५|२|३२|| शीलादिसत्यर्थे वर्तमानेभ्य एभ्यः क्नुः प्रत्ययो भवति । त्रस्नुः, गृध्नुः, धृष्णुः क्षिप्नुः ॥ २ - तृतीयस्येति पञ्चमः । ३ - आत्सन्ध्यक्षरस्येत्यात्वम् । ४-चजः कगम्, षः, णः । ५-लघोरिति गुणे मृजोऽस्य वृद्धिः, चजः कगम्, प्रथमः, षः, णः । ६-गुणः, षः, णः
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy