________________
२७९
हैमनूतनलघुप्रक्रिया पूयजःशानः ।५।२।२३॥ सत्यर्थे वर्तमानाभ्यां पवति यजिभ्यां परः शानः प्रत्ययो भवति । पवमानः, यजमानः ॥
वयाशक्तिशीले ।५।२।२४॥ सत्यर्थे वर्तमानाद् धातोर्वयःशक्तिशीलेषु गम्यमानेषु शानः प्रत्ययो भवति । वयः प्राणिनां कालकृता बाल्याद्यवस्था। कतीह शिखण्डं वहमानाः । शक्तिः सामर्थ्यम् । कतीह हस्तिनं निभानाः। शीलं स्वभावः । कतीह परान् निन्दमानाः ॥
धारीडोऽकृच्छेऽतृश् ।५।२।२५॥ अकृच्छः मुखसाध्यः। अकृच्छे सत्यर्थे वर्तमानाद् धारेरिडश्च परोऽतृश् प्रत्ययो भवति । धारयन् आचाराङ्गम् । अधीयन् द्रुमपुष्पीयम् ॥
तृन् शीलधर्मसाधुषु ।५।२।२७॥ शीले धर्म साधौ च सत्यर्थे वर्तमानाद् धातोस्तृन् प्रत्ययः कर्तरि भवति । शीलं स्वभावः, धर्मः कुलाद्याचारः, साध्विति क्रियाविशेषणम् । कर्ता कटेम् ॥
९-शवि मोन्तः, गुणावादेशौ १०-शानेऽवित्त्वान्डित्वे गमहनेत्युपान्त्यलोपः, हनोह्न इति धनादेशः। ११-अतो मः । १२-धृधातोणिचि शवि गुणायादेशौ । १३-अधिपूर्वादिधातोरतृशि अवित्त्वान्छित्वे गुणाभावे धातोरितोय । १-नामिन इति गुणः, सेर्डा, तृन्नुदन्तेति षष्ठीनिषेधात्कर्मणि द्वितीया ।