________________
हैमनूतनलघुप्रक्रिया
२७७. कस्वरात इति किम् ? बभूवान् । स्क्रनिति सिद्धे नियमार्थमिदम् “एभ्य एव क्यसोरादिरिड् भवती"ति ॥ ___गमहनविलुविशदृशो वा ।४।४।८४॥ एभ्यः परस्य क्वसोरादिरिड् वा भवति । जग्मिवान् , __मो नो म्वोश्च ।२।११६७॥ मकारान्तस्य भ्वादेरन्तस्य पदान्ते वर्तमानस्य मकारवकारयोश्च परयोर्नकारादेशो भवति । स चासन् परे । जगन्वान् । जघ्निवान् , जघन्वान् , विविदिवान् , विविद्वाने, विविशिवान् , विविश्वान् , ददृशिवान् , ददृश्वान् ॥
शत्रानशावेष्यति तु सस्यौ ।५।२।२०॥ सत्यर्थे वर्त्तमानाद् धातोः शत्रानशौ प्रत्ययौ भवतः, एष्यति भविष्यन्तीविषयेऽर्थे स्यप्रत्ययसहितौ शत्रानशौ भवतः । शक-याने, यास्यन् । आनश्-शानः। पचैन् , पक्ष्यन् ॥ ___ अतो म आने ।४।४।११५॥ धातोविहिते आने. प्रत्यये परे अकारस्य मोन्तो भवति । पचमानः, शयि
. ११-गस्य जः, गमहनेत्युपान्त्यलोपः, अङ इति घः । १२-मो न इति नः । १३-कित्त्वान्न गुणः । १४-ऋतोऽत् , कित्त्वान्न गुणः । १५-ऋदुदित इति नोन्तः, । १६-शीङ एरित्यत्वेऽय । १७-शवि लुगस्येत्यलोपः, अदुदित इति नोऽन्तः, संयोगान्तलोपः । १८-अनिट् । च ज इति कः, नाम्यन्तःस्थेति षः ।