SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७१ हैमनूतनलघुप्रक्रिया उवर्णात् ।४।४।५९॥ उवर्णान्तादेवस्वराद्धातोर्विहितस्य कित आदिरिड् न भवति । लूनः, लूनवान्, लीनः, लीनवान् ॥ । लुभ्यश्चेविमोहाचें ।४।४।४४॥ लुभ्यश्चिभ्यां यथासडरूयं विमोहेऽर्चायां च वर्तमानाभ्यां परेषां क्तक्तवतुक्त्वामादिरिड् वा भवति । विमोहनमाकुलीकरणम् । अर्चा. पूजा । विलुभिताः केशाः, आकुलीकृता इत्यर्थः। . अनेरन याम् ।४।२।४६।। अश्चरन यामेव वर्त्तमानस्योपान्त्य-नकारस्य लुग् भवति । अश्चिता गुरवः, पूजिता इत्यर्थः ॥ पूक्लिशिभ्यो नवा ।४।४।४५॥ पूङः क्लिशिभ्यां च परेषाम् क्तक्तवतुक्त्वामादिरिड् वा भवति । पवितः, पूतः क्लिशितः, क्लिष्टः । बहुवचनेन चित् शिच्च क्लिशियते ॥ डीयश्व्यैदितः क्तयोः ।४।४।६२॥ डीयतेः श्वयतेदिभ्यश्च धातुभ्यः परयोः क्तयोरादिरिद् न भवति । सूयत्यायोदितः ।४।२७०॥ सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परस्य क्तयोस्तकारस्य नकारादेशी भवति । डीनः डीनवान् । उड्डीनः, शूनः, शूनवान् । ओलस्जैत्१-अल्वादेरिति नत्वम् । २-न. डीडित्यादिना कित्त्वनिषेधाद् गुणावा. देशौ । ३-यजादीति वृत् , दीर्घमब इति दीर्थः । सूबत्यादीति नः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy