SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७० हैमबूतनलघुप्रक्रिया कर्तरि । गतो मैत्रो ग्रामम् । आसितो भवान् , शपितो भवान् । पयः पीतो वत्सः । अन्नं भुक्तो भवान् । ज्ञानेच्छा र्थोच्छिल्यादिभ्यः क्तः ।५।२।९२॥ ज्ञानार्थेभ्य इच्छार्थेभ्योऽर्चार्थेभ्यो जीभ्यः शीलादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तः प्रत्ययो भवति । राज्ञो ज्ञातः, राजानं जानातीत्यर्थः। राज्ञामिष्टः । वेट इतीड्निषेधः। राज्ञ इच्छन्तीत्यर्थः । राज्ञां पूजितः। शीलितः, शीलयतीत्यर्थः। सेटतयोरिति णिलोपः । रक्षितः रक्षयतीत्यर्थः । ___ आदितः।४।४७२॥ आकारानुबन्धाद् धातोः परयोः क्तक्तवत्वोरादिरिड् न भवति । मिन्नः, विष्णः, स्विन्नः, धृष्टः, सुप्तः, भीतः। ल्वादेरेषां तो नोऽप्रः ।४।२।६८॥ पृवर्जिताद् ऋकारान्ताद् धातोर्खादिभ्यश्च परेषां क्तिक्तक्तवतूनां तकारस्य नकार आदेशो भवति ॥ ... ऋवर्ण श्रूयूगेंगः कितः ।४।४।५८॥ ऋवर्णान्ताद् धातोः श्रयतेरुणुगश्चैकस्वराद्विहितस्य कितः प्रत्ययस्यादिरिड न भवति । "तीर्णः, तीर्णवान् । कीर्णः, कीर्णवान् । गीर्णः, गीर्णवान् । क्रपाद्यन्तर्गणो ल्वादिः॥ ६-यमिरमीत्यन्तलोपः । ७-ईर्व्यञ्जन इति ई। ८-चज इति, गः, अघोष इति कः । २-राज्ञः पूजयतीत्यर्थः। :१०-स्वपेरिति वृत् । ११-ऋवर्णेति नेट् । इर् दीर्घः । नत्वणत्वे ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy