SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २६९ क्षुधवसस्तेषाम् ।४।४।४३॥ क्षुधिवसिभ्यां परेषां क्तक्तवतुक्त्वानामादिरिड् भवति । अनूषितो' गुरुं भवान् । आः खनिसनिजनः।४।२।६०॥ खनादीनां धुडादौ ङिति प्रत्यये परेऽन्तस्याकारादेशो भवति । अनुजातो माणवको माणविकाम् । विजाता वत्सं गौः, आरुढो वृक्षं भवान् ॥ रदादमूर्च्छमदः क्तयोर्दस्य च।४।२।६९॥ मूर्छि- . मदिवर्जिताद् रेफदकारान्ताद् धातोः परस्य क्तक्तवतोस्तकारस्य तत्सन्नियोगे धातुदकारस्य च नकारो भवति । अनु-. जीर्णों वृषली चैत्रः । अनुप्राप्य जीर्ण इत्यर्थः। विभक्ता. भ्रातरो धनम् ॥ क्षशुषिपचो मकवम् ।४।२७८॥ शुषिपचिभ्यः परस्य क्तयोस्तकारस्य क्रमात् मकब इत्येते आदेशाः स्युः ।, क्षामः क्षामवान् , शुष्कः, शुष्कवान् , पक्वः पक्ववान् , - गत्यर्थाकर्मकपिबभुजे: ।५।१।११॥ गत्यर्थेभ्योऽ... कर्मकेभ्यश्च धावस्यः पिव जिभ्यां च, भूतादौ कतो वा भवति १-यजादिवचेरिति वृत् , घस्वस इति षः । २-डीयस्यैदित इती निषेधः । ३-हो धुडिति दः, अघ इतिः धा, टवर्गः, दस्बड्ढे इति ढलोपो दीर्षध। ४-ऋवर्णेतीनिषेधः, इर्, म्वादेरिति दीर्घः, रदादिति नः, णः, ५-चज इति यः, अघोष इति क ..
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy