________________
"२६८
हैमनूतनलघुप्रक्रिया क्सक्तवतू ।५।१।१७४॥ धातो तेऽर्थे वर्तमाना क्तक्तवतू प्रत्ययौ भवतः । तत्र तत्साप्यानाप्यादिति भावकर्मणोः क्तः, क्तवतुस्तु कर्तर्येव । क्रियते स्म कृतः । करोति स्म कृतवान् ॥ ___आरम्भे ।।१।१०॥ आदिकर्मणि भूतादित्वेन विवक्षिते वर्तमानाद धातोः कर्तरि क्तो वा स्यात् । प्रकृतः कटं भवान् । कर्तुमारब्धवानित्यर्थः । पक्षे-प्रकृतः कटो भवता ।
श्लिष्-शीङ् - स्थाऽऽस्वसजनमहजभजेः क्तः ।५।१।९॥ श्लिष्-शीङ्-स्था-आस्-वस्-जन्-रुह-जु-भञ् एभ्यः क्त-प्रत्ययः कर्तरि बा भवति । आश्लिष्टः कान्तां कामुकः । पक्षे भावकर्मणोः ॥
न डीम-शीङ्-पू-वृषि-श्चिदिस्विदिमिदः ।४।३। २७॥ डीङ-शीङ्-पूङ -धृष्-विद्-स्विद्-मिद् एभ्यः परौ सेटौ क्तक्तवतू न किद्वद् भवतः। अंतिशयितो गुरुं 'शिष्यः । पक्षेऽतिममितो गुरु शिष्येण ॥ ___ दोसोमास्थ इः।४।४।११॥ दो-सो-मा-स्था-एषां तादौ किति प्रत्यये इरन्तादेशो भवति । उपस्थितो गुरुं शिष्यः । उपोसितो गुरुं शिष्यः ॥
५-अनिद , कित्वान्न गुणः । ६-अभ्वादेरिति दीर्घः, ऋदुदित इति नोऽन्तः । ७-तर्गस्येति टवर्गः । ८-इट्यकित्त्वाद् गुणायादेशौ । ९-उन भास् । स्वाद्यशित इतीट् ।