SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २६७. भूतेऽर्थे वर्तमानात् क्वनिप् प्रत्ययो भवति कर्तरि । मेरुं दृष्टवान् मेरुदृश्वा, विश्वदृश्वा, पारदृश्वा ॥ सहराजभ्यां कृग् युधेः।५।१।१६७।। सहशब्दाताजन् शब्दाच्च कर्मणः परात्करोतेयुधेश्च भूतेऽर्थे वर्तमानाद् धातोः क्वनिप् प्रत्ययो भवति कर्तरि । सहकृतवानिति सहकृत्वा, सहकृत्वनः । सह युद्धवान् सहयुवा, सहयुश्चनः । राजकृत्वा, राजकृत्वनः॥ सप्तम्याः ।५।१।१६१॥ सप्तम्यन्तानाम्नः पराज्जने-. भूतेऽर्थे डः प्रत्ययो भवति कर्तरि । सरसि जातं सरोजम् । मनसि जातं मनोजम् , अप्सु जातम् अब्जम् ।। ___ अजातेः पञ्चम्याः ।५।१।१७०॥ पञ्चम्यन्ताद जाति-- वाचिनो नाम्नः पराद् भूतेऽर्थे जनेडों भवति । बुद्धेर्जातो बुद्धिजः संस्कारः। संस्काराजाता संस्कारजा स्मृतिः । सन्तोषजं सुखम् ॥ ___क्वचित् ।५।१।१०१॥ उक्तादन्यत्रापि क्वचिल्लक्ष्या-- नुसारेण डः प्रत्ययो भवति । उक्तानाम्नोऽन्यतोऽपि यथाकेन जातः किंजोऽनितिपितृकः। न जातोऽजः। अनुजातोऽनुजः॥ ६-कित्त्वाद् गुणाभावः, तोन्तः । ७-शसादौ न वमन्तेति निषेधः । १-डित्यन्त्यस्वरादिलोपः, सकारस्य रुत्वे उत्वे चावर्णस्येत्योः । २-धुट इति. तृतीयः । ३-स्त्रियामाप् । ४-नलोपो नजिति-"नकारलोपः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy