________________
२६१ हैमनूतनलघुप्रक्रिया उष्णं मुड़ते इत्येवशील उष्णभोजी शीतभोजी। प्रस्थायी, प्रतिबोधी, प्रयायी। संभोक्तेति बाहुलकाच्छीलेऽपि वक्ष्यमाणस्तृन्नेव । जातेः परान भवति, शालीन् भोक्ता । शीले वक्ष्यमापस्तृन्नेव ॥
साधौ ।५।१।१५५॥ नाम्नः परात्साधावर्थे वर्तमानाद् धातोणिन् प्रत्ययो भवति कर्तरि । अशीलार्थ आरम्भः । साधु करोति साधुकारी, साधुदायी, चारुनी, सुष्ठुगामी । साधु वादयति साधु गायतीत्यादावनभिधानाद् बाहुलकाद् वा न भवति ॥
ब्रह्मभ्रूणवृत्रात् क्वि ५।१।१६१॥ ब्रह्मन्-भ्रूणवृत्र एभ्य स्त्रिभ्यः कर्मभ्यः पराद् भूतेऽर्थे वर्तमानाद् धातोः विप् प्रत्ययो भवति कर्तरि । ब्रह्माणं इतवान् ब्रह्महा। भ्रूणहा, वृत्रहा ॥
कृगः सुपुण्यपापकर्ममन्त्रपदात् ५।१३१६२॥ सु. शब्दात पुण्य-पाप-कर्म-मन्त्र-पद एभ्यः कर्मभ्यश्च परात्करोतेभूतेऽर्थे वर्तमानात् क्षिप् प्रत्ययो भवति कर्तरि । सुष्टु कृतवान्मुकेत, पुण्यं कृतवान् पुण्यकृत् , पापकृत् , कर्मकृत् , मन्त्रकृत् , पदकृत् ॥
दृशः क्वनिप् ।५।१।१६६॥ कर्मणः पराद दृशे२-३-आत ऐरित्यैः, आयादेशः । शब्दशक्तिस्वाभाव्यात्साध्वादिशब्दोपादानं विना न तदर्थप्रतीतिरिति तदुपादानमिति बोध्यम् । ४- इन्हनिति दीघे, नलोपः । ५-हस्वस्य त इति तोऽन्तः ।