________________
हैमनूतनलघुप्रक्रिया
२६३ स्तम्बेरम-कर्णेजप एते शब्दा यथासंख्यं प्रिय-अलस-हस्तिसूचक एष्वर्थेषु कप्रत्ययान्ता निपात्यन्ते । शोकमपनुदति शोकापनुदः प्रियः। तुन्दं परिमाष्टिं तुन्दपरिमृजोऽलसः । स्तम्बे रमते स्तम्बेरमो हस्ती। संज्ञायां सप्तम्यलुक् । कर्णे जपति कर्णेजपः सूचकः ॥
दुहेर्डधः ।५।१।१४५॥ नाम्नः पराद् दुहेर्डघः प्रत्ययो भवति कर्तरि । कामान् दुग्धे पूरयति कामदुधा ।।
भजो विण् ।५।१।१४६॥ नाम्नः पराद् भजेविण प्रत्ययो भवति कर्तरि । अर्ध भजते अर्धभौक् । मुखभाक् । श्रृणोति तस्मादपि यः स पापभाक् । एतद्विषये वक्ष्यमाणः क्विक नेति द्रष्टव्यम् ॥ ___ मन्वनक्वनिप्विच क्वचित् ।५।१।१४७॥ नाम्नः पराद् धातोर्मन्-वन्-क्वनिप्-विच् एते प्रत्ययाः क्वचिद् भवन्ति कर्तरि । सुशणाति मुशर्मा, सुदामा, केवलादपि । शर्म, दाम । घृतं पिबति घृतपावा ॥
वन्याङ् पञ्चमस्य ।४।२।६५॥ धातोः पञ्चमस्य वनि प्रत्यये परे आकारो भवति । विजायते इति विजावा । सुधी
१-डित्यन्त्यस्वरादिलोपे स्त्रियामाप् , दीर्घः। २-णिति णितीति वृद्धौ सौ
च-च ज इत्यादि । ३-मनि नामिन इति गुणः । सौ नि दीर्घ इत्यादि । ४-वनि सौ नि दीर्घ इत्यादि । ५-वन्यात्वे समानदीर्घः, सौ दीर्घादि ।