SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६२ हैमनूतनलघुप्रक्रिया गच्छति विहंगः, विहगः, विहंगमः ॥ चरेष्टः ।५।१।१३८॥ आधारवाचिनो नाम्नः पराच्चरेष्टः प्रत्ययो भवति कर्तरि । कुरुषु चरति कुरुचरः । वनेचरः । सप्तम्या अलुप् । निशाचरः, निशाचरी ॥ पुरोऽग्रतोऽग्रेषु सर्तेः ।५।१।१४०॥ पुरस-अग्रतस्अग्रे एभ्यो नामभ्यः परात्सर्तेष्टो भवति कर्तरि । पुरः सरति पुरःसरः। पुरस्सरी । अग्रतः सरः अग्रेसरः। एदन्तत्वं निपातनात् ॥ . स्थापास्नात्रः कः ।५।१।१४१॥ नाम्नः परेभ्यः स्था-पा-स्ना-त्रा एभ्यः कः प्रत्ययो भवति कर्तरि । समे तिष्ठति समस्थः । द्वाभ्यां मुखशुण्डाभ्यां पिबति द्विपः॥ निनद्याः स्नातेः कौशले ।२।३।२०॥ निनदीशब्दाभ्यां परस्य स्नातेः सम्बन्धिनः सकारस्य समासे पो भवति । नद्यां स्नाति नदीष्णः प्रतरणे । कुशल इत्यर्थः । आतपात्रायते आतपत्रम् ॥ शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपं प्रिया. लसहस्तिसूचके ।५।१।१४३॥ शोकापनुद-तुन्दपरिमृज५-विहादेशेऽन्त्यस्वरादिलोपे मोन्तः । ६-शषसे इति वा सः । पक्षे रः पदान्त इति विसर्गः । ७-के इडेदित्यालोपः । ८-के आलोपः, रषवर्णादिति णः। ९-के आदित्यात्वे इडेत्पुसित्यालुक् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy